#S2S

Sdílet
Vložit
  • čas přidán 30. 05. 2024
  • अमेरिकीय-संस्कृतभारत्याः दूरस्थशिक्षणविभागेन S2S-शिक्षणक्रमस्य P1-स्तरीयवर्गं प्रवेष्टुम् आयोजितः परीक्षासिद्धतावर्गः। पाठ्यवस्तु - अभ्यासपुस्तकं, प्राथमिकस्तरीयाणि करपत्राणि (the so-called 12-page handout) च ।
    --------------------------
    May 21st वर्गस्य सारांशः (probably not updated)
    1) सङ्ख्याविषये किञ्चित् ज्ञातवन्तः ।
    2) वर्गार्थिनः कुत्र (sections 5.1 to 5.3), कदा (sections 5.4 to 5.6) च इति एतत् प्रश्नार्थकपदद्वयम् उपयुज्य प्रश्नान् रचितवन्तः, क्रमशः अन्येभ्यः उत्तराणि प्राप्तवन्तः च ।
    --------------------------
    May 7th वर्गस्य सारांशः (probably not updated)
    1) सङ्ख्याविषये किञ्चित् ज्ञातवन्तः ।
    2) वर्गार्थिनः sections 4.1, 4.2 च - अत्र ये अंशाः सन्ति तान् अधिकृत्य प्रश्नान् रचितवन्तः ।
    3) तृतीयं विभागम् अधिकृत्य रचितान् प्रश्नान् अस्मिन् सप्ताहे नवनीतः प्रेषयति ।
    --------------------------
    Apr 30th वर्गस्य सारांशः
    1) अभ्यासपुस्तकस्य प्रथमविभागं, द्वितीयविभागं च अधिकृत्य नवनीतेन प्रेषितानां प्रश्नानाम् उत्तराणि परिशीलितवन्तः ।
    2) वर्गार्थिनः sections 4.1, 4.2 च - अत्र ये अंशाः सन्ति तान् अधिकृत्य प्रश्नान् रचितवन्तः ।
    3) तृतीयं विभागम् अधिकृत्य रचितान् प्रश्नान् अस्मिन् सप्ताहे नवनीतः प्रेषयति ।
    --------------------------
    Apr 23rd वर्गस्य सारांशः
    1) एतेषां पुनरावर्तनम्, अभ्यासश्च अभवत् -
    a) विद्याशिवकुमार-भगिनी यानि वाक्यानि वर्गस्य WhatsApp-समूहे प्रेषितवती तानि वाक्यानि परिशीलितवन्तः ।
    b) Section 19 (pp51-53) - एतं पाठं संक्षेपेण परिशीलितवन्तः ।
    c) Section 16 (pp45-48) - एतं पाठं संक्षेपेण परिशीलितवन्तः ।
    d) प्रातराशः - इत्येतत् पदं रामायणे सन्दरकाण्डे अस्ति । सीतया तिरस्कृतः रावणः कुपितः भूत्वा तां सीताम् एवं वदति -
    द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः ।
    ततः शयनमारोह मम त्वं वरवर्णिनि ॥5-22-8||
    द्वाभ्यामूर्ध्वं तु मासाभ्यां भर्तारं मामनिच्छतीम् ।
    मम त्वां प्रातराशार्थे सूदाश्छेत्स्यन्ति खण्डशः ॥5-22-9||
    2) नूतनतया पठिताः अंशाः
    a) Section 1 (pp1-11) - अत्र ये अंशाः सन्ति तेषाम् आधारेण प्रश्नद्वयं लिखन्तु, क्रमशः अन्यान् पृच्छन्तु । उत्तराणि अन्ये वदेयुः ।
    3) गृहपाठः
    a) Write two questions that each of you wrote in the class based on Section 1 in the following shared document. docs.google.com/document/d/1H...
    b) The same thing as item 3a but questions based on section 2
    c) Section 1 and Section 2 (pp1-15) - अत्र ये अंशाः सन्ति तान् अधिकृत्य नवनीतः गुरुवासरे दश प्रश्नान् सूचयति । तेषां प्रश्नानाम् उत्तराणि सर्वे भानुवासरे तत्पूर्वं वा लिखन्तु । नवनीतः उचितानि उत्तराणि कानि इति सोमवासरे सूचयति । तद्दृष्ट्वा उत्तराणां मौल्याङ्कनं कुर्मः । प्रतिदोषं -0.1 (minus 0.1 marks for every mistake).
    --------------------------
    Apr 16th वर्गस्य सारांशः
    1) एतेषां पुनरावर्तनम्, अभ्यासश्च अभवत् -
    a) विद्याश्रीधर-भगिनी गोदवारीशिबिरस्य अनुभवं कथितवती । आहत्य सप्त वाक्यानि । तानि वाक्यानि परिशील्य यथायोग्यं परिष्कृतवन्तः ।
    b) अतः, यतः (section 33.3, pp71-72) - एतयोः अभ्यासः अभवत् ।
    (i) श्वः कार्यालयस्य विरामः । अतः मित्रैः सह चलच्चित्रं द्रष्टुं गच्छामि । (अत्र वाक्यद्वयम्)
    (ii) श्वः मित्रैः सह चलच्चित्रं द्रष्टुं गच्छामि यतः कार्यालयस्य विरामः अस्ति । (अत्र एकमेव वाक्यम्)
    2) नूतनतया पठिताः अंशाः
    a) शरीरस्य अवयवाः (अङ्गानि वा) - Section 34, pp72-73
    शिरः - सकारान्तः नपुंसकलिङ्गः शिरस्-शब्दः । एतत् शिरः । तत् शिरः ।
    कटिः - इकारान्तः स्त्रीलिङ्गः कटि-शब्दः । एषा कटिः । सा कटिः ।
    स्कन्दः = शिवस्य पुत्रः कुमारः, स्कन्धः = शरीरस्य अवयवः
    b) यः - सः, या - सा, यत् - तत् - Section 35, pp73-74
    यः धर्मः सनातनः सः हिन्दुधर्मः ।
    या जन्म ददाति सा जननी ।
    यत् जलं गङ्गायाम् अस्ति तत् पवित्रम् ।
    c) यद्यपि - तथापि
    "गृहपाठं कुर्वन्तु" इति यद्यपि शिक्षकः बहुवारं वदति तथापि छात्राः गृहपाठं न कुर्वन्ति ।
    3) गृहपाठः
    a) विद्याशिवकुमारभगिनी सूर्यग्रहणविषये यानि वाक्यानि लिखितवती अस्ति तानि वाक्यानि क्रमशः WhatsApp-समूहे प्रेषयतु । अन्ये तानि वाक्यानि परिष्कुर्वन्तु ।
    b) चित्राभगिनी, गौरीभगिनी च कमपि विषयम् अधिकृत्य षड् वाक्यानि लिखन्तु । आगामिवर्गे (Apr 23) तानि वाक्यानि परिशीलयामः ।
    c) अभ्यासपुस्तके Sections 34, 35, 36 एतत् पठन्तु, तत्र सूचितान् अभ्यासान् च समापयन्तु ।
    d) यः - सः, या - सा, यत् - तत्, यद्यपि - तथापि - एतानि पदानि उपयुज्य नूतनानि वाक्यानि रचयन्तु, वदन्तु च ।

Komentáře •