शिवस्तोत्रे । प्रस्तुति - सौ अपर्णा अभ्यंकर | दि. १ मार्च २०२२ - महाशिवरात्री
Vložit
- čas přidán 28. 02. 2022
- Shivstotre | Artist: Aparna Shankar Abhyankar | MahaShivratri
शिवस्तोत्रे । प्रस्तुति - सौ अपर्णा अभ्यंकर | श्रीशिवमहिम्नस्तोत्र, श्रीशिवमनासपूजा, श्रीआत्मषटकम्
महाशिवरात्रीनिमित्त विशेष स्तोत्रपठण । दि. १ मार्च २०२२ - महाशिवरात्री
(१) श्रीशिवमहिम्नस्तोत्र
(२) श्रीशिवमनासपूजा
(३) श्रीआत्मषटकम्
सादरीकरण: सौ. अपर्णा शंकर अभ्यंकर
----------------------------------------------------------------------------------------------------------------------
(१) श्रीशिवमहिम्नस्तोत्र
॥ ॐ नमः शिवाय ॥
॥ अथ श्री शिवमहिम्नस्तोत्रम् ॥
॥ पुष्पदन्त उवाच ॥
महिम्नः पारं ते परमविदुषो यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।
अथाऽवाच्यः सर्वः स्वमतिपरिणामावधि गृणन्
ममाप्येष स्तोत्रे हर निरपवादः परिकरः ॥ १॥
अतीतः पंथानं तव च महिमा वाङ्मनसयोः
अतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।
स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः
पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥ २॥
मधुस्फीता वाचः परमममृतं निर्मितवतः
तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम् ।
मम त्वेतां वाणीं गुणकथनपुण्येन भवतः
पुनामीत्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता ॥ ३॥
तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत्
त्रयीवस्तु व्यस्तं तिस्रुषु गुणभिन्नासु तनुषु ।
अभव्यानामस्मिन् वरद रमणीयामरमणीं
विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः ॥ ४॥
किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं
किमाधारो धाता सृजति किमुपादान इति च ।
अतर्क्यैश्वर्ये त्वय्यनवसर दुःस्थो हतधियः
कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगतः ॥ ५॥
अजन्मानो लोकाः किमवयववन्तोऽपि जगतां
अधिष्ठातारं किं भवविधिरनादृत्य भवति ।
अनीशो वा कुर्याद् भुवनजनने कः परिकरो
यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ॥ ६॥
त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवमिति
प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च ।
रुचीनां वैचित्र्यादृजुकुटिल नानापथजुषां
नृणामेको गम्यस्त्वमसि पयसामर्णव इव ॥ ७॥
महोक्षः खट्वाङ्गं परशुरजिनं भस्म फणिनः
कपालं चेतीयत्तव वरद तन्त्रोपकरणम् ।
सुरास्तां तामृद्धिं दधति तु भवद्-भूप्रणिहितां
न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥ ८॥
ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदं
परो ध्रौव्याऽध्रौव्ये जगति गदति व्यस्तविषये ।
समस्तेऽप्येतस्मिन् पुरमथन तैर्विस्मित इव
स्तुवन् जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ॥ ९॥
तवैश्वर्यं यत्नाद् यदुपरि विरिञ्चो हरिरधः
परिच्छेतुं यातावनलमनलस्कन्धवपुषः ।
ततो भक्तिश्रद्धा-भरगुरु-गृणद्भ्यां गिरिश यत्
स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ॥ १०॥
इत्येषा वाङ्मयी पूजा शिवशङ्कर-पादयोः ।
अर्पिता तेन माम् देव: प्रीयतां तु सदाशिवः ॥ ४१॥
तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर ।
यादृशोऽसि महादेव तादृशाय नमो नमः ॥ ४२॥
एककालं द्विकालं वा त्रिकालं यः पठेन्नरः ।
सर्वपाप-विनिर्मुक्तः शिव लोके महीयते ॥ ४३॥
॥ ॐ नमः शिवाय ॥
॥ इति श्री पुष्पदन्त विरचितं शिवमहिम्नः
स्तोत्रं संपूर्णम् ॥
-----------------------------------------------------------------------------------------------------------------------
(२) श्रीशिवमानसपूजा
रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं
नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् ।
जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥ १॥
सौवर्णे नवरत्नखण्डखचिते पात्रे घृतं पायसं
भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् ।
शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलं
ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥ २॥
छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं
वीणाभेरिमृदङ्गकाहलकला गीतं च नृत्यं तथा ।
साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मया
सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥ ३॥
आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं
पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः ।
सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो
यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ॥ ४॥
करचरणकृतं वाक्कायजं कर्मजं वा ।
श्रवणनयनजं वा मानसं वापराधम् ।
विहितमविहितं वा सर्वमेतत्क्षमस्व ।
जय जय करुणाब्धे श्रीमहादेवशम्भो ॥ ५॥
॥ ॐ नमः शिवाय ॥
॥ इति श्रीमच्छङ्कराचार्यविरचिता शिवमानसपूजा समाप्ता ॥
-----------------------------------------------------------------------------------------------------------------------
(३) श्रीआत्मषटकम्
मनोबुद्ध्यहङ्कार चित्तानि नाहं
न च श्रोत्रजिह्वे न च घ्राणनेत्रे ।
न च व्योम भूमिर्न तेजो न वायुः
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥१॥
न च प्राणसंज्ञो न वै पञ्चवायुः
न वा सप्तधातुर्न वा पञ्चकोशः ।
न वाक्पाणिपादौ न चोपस्थपायु
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥२॥
न मे द्वेषरागौ न मे लोभमोहौ
मदो नैव मे नैव मात्सर्यभावः ।
न धर्मो न चार्थो न कामो न मोक्षः
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥३॥
न पुण्यं न पापं न सौख्यं न दुःखं
न मन्त्रो न तीर्थं न वेदा न यज्ञाः ।
अहं भोजनं नैव भोज्यं न भोक्ता
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥४॥
न मे मृत्युशङ्का न मे जातिभेदः
पिता नैव मे नैव माता न जन्म ।
न बन्धुर्न मित्रं गुरुर्नैव शिष्य:
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥५॥
अहं निर्विकल्पो निराकाररूपो
विभुर्व्याप्य सर्वत्र सर्वेन्द्रियाणि।
सदा मे समत्वं न मुक्तिर्न बन्ध-
श्चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥६॥
॥ ॐ नमः शिवाय ॥
॥ इति श्रीशङ्कराचार्यकृतं आत्मषटकं संपूर्णम् ॥
-----------------------------------------------------------------------------------------------------------------------
🙏🌿🌹🛕🌹🔱⛳🐚⛳आपर्णा ताई 🌷 नमस्कार विनंती 🚩🌹 करते अक्षरासह शिवपत्र्चाक्षरस्तोत्र🎉लिंगाष्टकम घ्यावे सर्व स्तोत्र दिवसाचि सुरवात होते 🌹🙏🌹🙏🚩🌹🚩🪷🕉️ ताई 🌷 तुमच्या आवाजात सरस्वती आहे 🪔🚩 मन व घर वास्तु प्रसन्न होऊन आशीर्वाद देते 🎉🚩🔱 जय श्री लक्ष्मी माता जोगेश्वरी देवी माता प्रसन्न ⛳🐚🛕🌿🥑🍁🙏🌹🪷🕉️🌷🪔🚩🔱🪔🔱🌹🪷🌹💕🐚💕🍁💐🌹💐🪷🌸💮🏵️🌿🏵️
गुरु देव व गुरू मातेचे तर खूपच आशिर्वाद आम्हाला मिळाले त्यांनां साष्टांग प्रणिपाद अशीच कृपा छाया आमच्या वर व नरेंद्र मोदी वर ठेवा आमच्या राज्याला खूप आशिर्वाद द्या ही आग्रहाची विनंती व प्रार्थना वंदे मातरम्
Apratim v bhavpurn
हरहर महादेव...
खुप छान, मनापासून धन्यवाद 👌👌🙏
Har har har Mahadev
आम्हा मित्रांना तुमचे सिता व रामाचे दर्शन घेण्याची खूप इच्छा आहे परमेश्वर हि आमची इच्छा लवकर पूर्ण करो हि प्रार्थना जय हरी वंदे मातरम्
अपर्णा ताई शिवमहिम्न स्तोत्र बरोबर शिवपचाक्षर व लिंग ष्टक हि ताईमणावे तुमच्या आवाजात ऐकायला खुपच मनशात होते रोज एक ते🎉❤🪔🪷🙏👌
त्या स्तोत्रांचा महिमा अगाध आहे ! (संपादक)
अपर्णा 🎉 ताई नमस्कार 🙏🚩🙏🚩🙏🚩🕉️🛕🌿🌹🛕🌹
ताई शिवमहिम् शिव मानसपूजा. 🎉बरो बर शिवपत्र्चाक्षरस्तोत्रम व लिंग आष्टक चा. विहिडो आक्षरासह 🎉करा ताई 🌷🙏🪔🪷 विनंती आहे 🪔🚩 आपल्याला खूप खूप 🌹🚩🌹🙏🌹🪷 धन्यवाद येवड करा ताई यैकल्या शिवाय दिवस 🎉जात नाही 🕉️🛕🕉️
खूपच मधुर, सुश्राव्य पठण! धन्यवाद!
खुप छान वाटत
Khup chan 🙏🙏
Khup chann
आपली भेट मिरजेत खरे मंदिरात झाल्यापासून मी रोजच आपण म्हटलेले विष्णूसहस्रनाम सकाळी ऐकते आणि शिवरात्रीपासून शिवमहीम्न संध्याकाळी ऐकते. फार छान वाटते.
😊p
Sharda
अपर्णा माऊली आपल्या या स्पष्टोच्चारित, गोड आवाजातील स्तोत्र पडणारे आमची महाशिवरात्र पावन साजरी झाली. मनापासून धन्यवाद.
बेजोड़ आवाज
पठणाने