#S2S

Sdílet
Vložit
  • čas přidán 13. 06. 2024
  • अमेरिकीय-संस्कृतभारत्याः दूरस्थशिक्षणविभागेन S2S-शिक्षणक्रमस्य P1-स्तरीयवर्गं प्रवेष्टुम् आयोजितः परीक्षासिद्धतावर्गः। पाठ्यवस्तु - अभ्यासपुस्तकं, प्राथमिकस्तरीयाणि करपत्राणि (the so-called 12-page handout) च ।
    --------------------------
    June 11th वर्गस्य सारांशः (NOT updated)
    --------------------------
    June 4th वर्गस्य सारांशः (NOT updated)
    --------------------------
    May 28th वर्गस्य सारांशः (partially updated)
    १) कुत्र इति प्रश्नः । तत्र पठति, क्रीडति … इत्यादीनि क्रियापदानि । उत्तररूपेण सप्तमीविभक्त्यन्तं (स्थानसूचकं) पदं भवति । यथा -
    बालकः कुत्र पठति? बालकः ग्रन्थालये पठति ।
    बालकः कुत्र खादति? बालकः भोजनशालायां खादति ।
    बालकः कुत्र वसति? बालकः काश्यां वसति ।
    बालकः कुत्र क्रीडति? बालकः क्रीडाङ्गणे क्रीडति ।
    २) कुत्र इति प्रश्नः । तत्र गच्छति, आगच्छति, नयति, आनयति च इति एतेषु अन्यतमं क्रियापदम् । उत्तररूपण द्वितीयविभक्त्यन्तं (स्थानसूचकं) पदं भवति । यथा -
    बालकः कुत्र गच्छति? बालकः ग्रन्थालयं गच्छति ।
    बालकः कुत्र आगच्छति? बालकः शालाम् आगच्छति ।
    बालकः अनुजां कुत्र नयति? बालकः अनुजां विपणीं नयति ।
    बालकः मित्रं कुत्र आनयति? बालकः मित्रं गृहम् आनयति ।
    ३) कुत्र इति प्रश्नः । तत्र प्रेषयति अथवा आह्वयति इति क्रियापदम् । उत्तररूपेण द्वितीयाविभक्त्यन्तं पदं, प्रति इति पदं च भवति । यथा -
    बालकः पत्रं कुत्र प्रेषयति? बालकः पत्रं जनकं प्रति प्रेषयति ।
    बालकः मित्रं कुत्र आह्वयति? बालकः मित्रं उत्सवं प्रति आह्वयति ।
    --------------------------
    May 21st वर्गस्य सारांशः (probably not updated)
    1) सङ्ख्याविषये किञ्चित् ज्ञातवन्तः ।
    2) वर्गार्थिनः कुत्र (sections 5.1 to 5.3), कदा (sections 5.4 to 5.6) च इति एतत् प्रश्नार्थकपदद्वयम् उपयुज्य प्रश्नान् रचितवन्तः, क्रमशः अन्येभ्यः उत्तराणि प्राप्तवन्तः च ।
    --------------------------
    May 7th वर्गस्य सारांशः (probably not updated)
    1) सङ्ख्याविषये किञ्चित् ज्ञातवन्तः ।
    2) वर्गार्थिनः sections 4.1, 4.2 च - अत्र ये अंशाः सन्ति तान् अधिकृत्य प्रश्नान् रचितवन्तः ।
    3) तृतीयं विभागम् अधिकृत्य रचितान् प्रश्नान् अस्मिन् सप्ताहे नवनीतः प्रेषयति ।
    --------------------------
    Apr 30th वर्गस्य सारांशः
    1) अभ्यासपुस्तकस्य प्रथमविभागं, द्वितीयविभागं च अधिकृत्य नवनीतेन प्रेषितानां प्रश्नानाम् उत्तराणि परिशीलितवन्तः ।
    2) वर्गार्थिनः sections 4.1, 4.2 च - अत्र ये अंशाः सन्ति तान् अधिकृत्य प्रश्नान् रचितवन्तः ।
    3) तृतीयं विभागम् अधिकृत्य रचितान् प्रश्नान् अस्मिन् सप्ताहे नवनीतः प्रेषयति ।
    --------------------------
    Apr 23rd वर्गस्य सारांशः
    1) एतेषां पुनरावर्तनम्, अभ्यासश्च अभवत् -
    a) विद्याशिवकुमार-भगिनी यानि वाक्यानि वर्गस्य WhatsApp-समूहे प्रेषितवती तानि वाक्यानि परिशीलितवन्तः ।
    b) Section 19 (pp51-53) - एतं पाठं संक्षेपेण परिशीलितवन्तः ।
    c) Section 16 (pp45-48) - एतं पाठं संक्षेपेण परिशीलितवन्तः ।
    d) प्रातराशः - इत्येतत् पदं रामायणे सन्दरकाण्डे अस्ति । सीतया तिरस्कृतः रावणः कुपितः भूत्वा तां सीताम् एवं वदति -
    द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः ।
    ततः शयनमारोह मम त्वं वरवर्णिनि ॥5-22-8||
    द्वाभ्यामूर्ध्वं तु मासाभ्यां भर्तारं मामनिच्छतीम् ।
    मम त्वां प्रातराशार्थे सूदाश्छेत्स्यन्ति खण्डशः ॥5-22-9||
    2) नूतनतया पठिताः अंशाः
    a) Section 1 (pp1-11) - अत्र ये अंशाः सन्ति तेषाम् आधारेण प्रश्नद्वयं लिखन्तु, क्रमशः अन्यान् पृच्छन्तु । उत्तराणि अन्ये वदेयुः ।
    3) गृहपाठः
    a) Write two questions that each of you wrote in the class based on Section 1 in the following shared document. docs.google.com/document/d/1H...
    b) The same thing as item 3a but questions based on section 2
    c) Section 1 and Section 2 (pp1-15) - अत्र ये अंशाः सन्ति तान् अधिकृत्य नवनीतः गुरुवासरे दश प्रश्नान् सूचयति । तेषां प्रश्नानाम् उत्तराणि सर्वे भानुवासरे तत्पूर्वं वा लिखन्तु । नवनीतः उचितानि उत्तराणि कानि इति सोमवासरे सूचयति । तद्दृष्ट्वा उत्तराणां मौल्याङ्कनं कुर्मः । प्रतिदोषं -0.1 (minus 0.1 marks for every mistake).

Komentáře •