#DLPExam

Sdílet
Vložit
  • čas přidán 30. 04. 2024
  • अमेरिकीय-संस्कृतभारत्याः दूरस्थशिक्षणविभागस्य शिक्षास्तरीयपरीक्षार्थं सिद्धतां कर्तुम् आयोजितः अनौपचारिकः वर्गः। पाठ्यवस्तु - शिक्षास्तरीयं पुस्तकम् ।
    --------------------------------------------------------------
    May 1st - वर्गस्य सारांशः -
    1) पूर्वं पठितानाम् अंशानां पुनस्स्मारणम् -
    a) प्रथमपाठः (pp1-24)
    b) द्वितीयः पाठः (pp25-37)
    2) नूतनतया पठिताः अंशाः -
    a) अनुस्वारसन्धिः (pp37-38)
    b) जश्त्वसन्धिः (pp38-41)
    c) लौकिकन्यायाः (p41)
    (i) देहलीदीपन्यायः - गृहावग्रहणी देहली इत्यमरः (पुरवर्गे) । गृहद्वारस्य अधोभागः इत्यर्थः ।
    (ii) सूचीकटाहन्यायः - कटाहः = भर्जनार्थम् उपयुज्यमानं पाकपात्रम् ।
    d) सङ्ग्राह्यविषयाः (p42) - वसते - अत्र आर्षप्रयोगः । वस निवासे इति भ्वादिः धातुः परस्मैपदी । परन्तु कराग्रे वसते लक्ष्मीः … इत्यस्मिन् श्लोके तु आत्मनेपदित्वेन भवति ।
    3) गृहपाठः -
    a) एतावत् पर्यन्तं यत् पठितवन्तः तत् सर्वम् एकवारं वा पठन्तु । शिक्षापुस्तके pp1-42.
    b) प्रथमपाठे (pp9-10), द्वतीयपाठे (pp30-31) च सूचितानि सुभाषितानि प्रतिदिनं पठन्तु ।
    c) अनुस्वारसन्धिः, जश्त्वसन्धिः - एतयोः सन्ध्योः अभ्यासान् समापयन्तु । pp38-41.
    d) द्वितीये पाठे सूचितयोः लौकिकन्याययोः अन्यतरस्य विवरणं संक्षेपेण संस्कृतेन लिखन्तु ।
    e) द्वितीये पाठे सूचितेषु तिर्थक्षेत्रेषु अन्यतमस्य विवरणं संक्षेपेण संस्कृतेन लिखन्तु ।
    --------------------------------------------------------------
    Apr 24th - वर्गस्य सारांशः -
    1) पूर्वं पठितानाम् अंशानां पुनस्स्मारणम् -
    a) प्रथमपाठः (pp1-24)
    b) द्वितीयः पाठः (pp25-34)
    2) नूतनतया पठिताः अंशाः -
    a) अन्वयरचना (pp34-37)
    पश्यैतां पाण्डुपुत्राणाम्…, अत्र शूरा महेष्वासा… एतस्य गीताश्लोकद्वयस्य पदच्छेदं, पदपरिचयम्, अन्वयं च पठितवन्तः ।
    3) गृहपाठः -
    a) एतावत् पर्यन्तं यत् पठितवन्तः तत् सर्वम् एकवारं वा पठन्तु । शिक्षापुस्तके pp1-37.
    b) प्रथमपाठे (pp9-10), द्वतीयपाठे (pp30-31) च सूचितानि सुभाषितानि प्रतिदिनं पठन्तु ।
    c) अनुस्वारसन्धिः, जश्त्वसन्धिः - एतयोः सन्ध्योः विषये पठन्तु । pp38-41
    --------------------------------------------------------------
    Apr 17th - वर्गस्य सारांशः -
    1) पूर्वं पठितानाम् अंशानां पुनस्स्मारणम् -
    a) प्रथमपाठः (pp1-24)
    b) द्वितीयः पाठः (pp25-31)
    2) नूतनतया पठिताः अंशाः -
    a) काव्यकथा - मन्त्रालोचनम् (pp31-32)
    b) अन्वयरचना (pp32-34)
    3) गृहपाठः -
    a) एतावत् पर्यन्तं यत् पठितवन्तः तत् सर्वम् एकवारं वा पठन्तु । शिक्षापुस्तके pp1-34.
    b) प्रथमपाठे (pp9-10), द्वतीयपाठे (pp30-31) च सूचितानि सुभाषितानि प्रतिदिनं पठन्तु ।
    c) पश्यैतां पाण्डुपुत्राणाम्…, अत्र शूरा महेष्वासा… एतस्य गीताश्लोकद्वयस्य पदच्छेदं, पदपरिचयम्, अन्वयं च लिखन्तु ।
    --------------------------------------------------------------
    Apr 10th - वर्गस्य सारांशः -
    1) पूर्वं पठितानाम् अंशानां पुनस्स्मारणम् -
    a) प्रथमपाठः (pp1-24)
    b) द्वितीयः पाठः (pp25-29)
    2) नूतनतया पठिताः अंशाः -
    a) पदसङ्ग्रहः (p29) - अत्र गणयति इयेतस्य क्रियापदस्य अन्यानि रूपाणि पठन्तः -
    कर्तरिप्रयोगे - लटि (वर्तमानकाले), लङि (भूतकाले), विधिलिङि (विध्यर्थे, सम्भावनार्थे च) च वाक्यानि रचितवन्तः [क्रमशः sentences labeled (i), (ii) and (iii)] । तेषां वाक्यानां प्रयोगपरिवर्तनं कृतवन्तः = कर्मणिप्रयोगे वाक्यानि लिखितवन्तः [क्रमशः sentences labeled (iv), (v) and (vi)] । यथा -
    (i) बालकः शालां गच्छति । (ii) बालकः शालाम् अगच्छत् । (iii) बालकः शालां गच्छेत् ।
    (iv) बालकेन शाला गम्यते । (v) बालकेन शाला अगम्यत । (vi) बालकेन शाला गम्येत ।
    b) विधिलिङि कर्मणिरूपं यदस्ति तस्य स्थाने क्तवतु-प्रत्ययान्तं कृदन्तरूपम् अथवा अनीयर्-प्रत्ययान्तं कृदन्तरूपं वा भवितुमर्हति । यथा -
    (vi) बालकेन शाला गम्येत = (vi-a) बालकेन शाला गन्तव्या । = (vi-b) बालकेन शाला गमनीया ।
    c) पदसङ्ग्रहे सूचितेषु धातुषु - चर इत्येव अकर्मकः धातुः (इत्युक्ते भावेप्रयोगे तस्य रूपं भवति) । अन्ये चत्वारः धातवः सकर्मकाः (इत्युक्ते कर्मणिप्रयोगे तेषां रूपाणि भवन्ति) ।
    d) प्रहेलिका -
    राजन् । कमलपत्राक्ष । तत्ते भवतु चाक्षयम् ।
    आसादयति यद्रूपं करेणुः करणैः विना ॥
    (i) सामान्यः अन्वयः / अर्थः - हे राजन्, हे कमलपत्राक्ष, यद् रूपं करेणुः (गजा) करणैः (इन्द्रियैः) विना आसादयति (प्राप्नोति) तत् ते अक्षयं च भवतु ।
    (ii) गूढार्थः - करणैः विना करेणुः = ककार-रेफ-णकारैः विना करेणुः = क् + अ + र् + ए + ण् + उः ------- अ + ए + उः = ऐ + उः = आय् + उः = आयुः । हे राजन्, हे कमलपत्राक्ष, यद् (आयुः इति) रूपं (=शब्दरूपं) करेणुः (इति पदं) करणैः (क्, र्, ण्, एतैः त्रिभिः) विना आसादयति (प्राप्नोति) तत् (=आयुः) ते अक्षयं च भवतु । भवान् दीर्घायुः भवतु इत्यर्थः ।
    आसादयति - अत्र आङ् (आ) इति उपसर्गः । षदॢँ - विशरणगत्यवसादनेषु (भ्वादिः परस्मैपदी सकर्मकः) ।
    e) सुभाषितम् -
    दानं भोगो नाशस्त्रिस्रो गतयो भवन्ति वित्तस्य ।
    यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवेत् ॥
    वित्तस्य तिस्रः गतयः भवन्ति । ताश्च - दानं, भोगः, नाशः इति । कोऽपि जनः केवलं सङ्गृह्णाति परन्तु न ददाति, न भुङ्क्ते च, तस्य धनस्य गतिः तृतीया एव भवेत् । इत्युक्ते केवलं धनसङ्ग्रहणे आस्कक्तस्य (कृपणस्य) धनं नष्टमेव भवति ।
    3) गृहपाठः -
    a) एतावत् पर्यन्तं यत् पठितवन्तः तत् सर्वम् एकवारं वा पठन्तु । शिक्षापुस्तके pp1-31.
    b) प्रथमपाठे (pp9-10), द्वतीयपाठे (pp30-31) च सूचितानि सुभाषितानि प्रतिदिनं पठन्तु । It just takes 2minutes to say all these four सुभाषितानि ।
    c) काव्यकथां (मन्त्रालोचनं) त्रिवारम् उच्चैः पठन्तु । pp31-32

Komentáře •