Dakini Strotram With Lyrics | डाकिनी स्तोत्रम् | Powerful Maa Kali Avtaar Mantra | Kali Maha Mantra

Sdílet
Vložit
  • čas přidán 22. 08. 2024
  • Dakini Strotram With Lyrics | डाकिनी स्तोत्रम्
    तांत्रिक साधना को साधारणतया 3 मार्ग हैं - वाम मार्ग, दक्षिण मार्ग और मध्यम मार्ग। डाकिनी साधना वाममार्गी साधना है। तंत्र साधना में डाकिनी साधना बहुत अधिक प्रचलित साधना है । इस शक्ति को नियंत्रित होने पर साधक को भूत, प्रेत, पिशाच आदि को नियंत्रित कर सकता है वह इसे किसी व्यक्ति के कल्याण के लिए प्रयुक्त कर सकता है ।

    डाकिनीस्तोत्रम्
    आनन्दभैरवी उवाच
    अथ वक्ष्ये महाकाल मूलपद्मविवेचनम् ।
    यत् कृत्वा अमरो भूत्वा वसेत् कालचतुष्टयम् ॥ १॥
    अथ षट्चक्रभेदार्थे भेदिनीशक्तिमाश्रयेत् ।
    छेदिनीं सर्वग्रन्थीनां योगिनीं समुपाश्रयेत् ॥ २॥
    तस्या मन्त्रान् प्रवक्ष्यामि येन सिद्धो भवेन्नरः ।
    आदौ शृणु महामन्त्रं भेदिन्याः परं मनुम् ॥ ३॥
    आदौ कालींसमुत्कृत्य ब्रह्ममन्त्रं ततः परम् ।
    देव्याः प्रणवमुद्धृत्य भेदनी तदनन्तरम् ॥ ४॥
    ततो हि मम गृह्णीयात् प्रापय द्वयमेव च ।
    चित्तचञ्चीशब्दान्ते मां रक्ष युग्ममेव च ॥ ५॥
    भेदिनी मम शब्दान्ते अकालमरणं हर ।
    हर युग्मं स्वं महापापं नमो नमोऽग्निजायया ॥ ६॥
    एतन्मन्त्रं जपेत्तत्र डाकिनीरक्षसि प्रभो ।
    आदौ प्रणवमुद्धृत्य ब्रह्ममन्त्रं ततः परम् ॥ ७॥
    शाम्भवीति ततश्चोक्त्वा ब्राह्मणीति पदं ततः ।
    मनोनिवेशं कुरुते तारयेति द्विधापदम् ॥ ८॥
    छेदिनीपदमुद्धृत्य मम मानसशब्दतः ।
    महान्धकारमुद्धृत्य छेदयेति द्विधापदम् ॥ ९॥
    स्वाहान्तं मनुमुद्धृत्य जपेन्मूलाम्बुजे सुधीः ।
    एतन्मन्त्रप्रसादेन जीवन्मुक्तो भवेन्नरः ॥ १०॥
    तथा स्त्रीयोगिनीमन्त्रं जपेत्तत्रैव शङ्कर ।
    ॐ घोररूपिणिपदं सर्वव्यापिनि शङ्कर ॥ ११॥
    महायोगिनि मे पापं शोकं रोगं हरेति च ।
    विपक्षं छेदयेत्युक्त्वा योगं मय्यर्पय द्वयम् ॥ १२॥
    स्वाहान्तं मनुमुद्धृत्य जपाद्योगी भवेन्नरः ।
    खेचरत्वं समाप्नोति योगाभ्यासेन योगिराट् ॥ १३॥
    डाकिनीं ब्रह्मणा युक्तां मूले ध्यात्वा पुनः पुनः ।
    जपेन्मन्त्रं सदायोगी ब्रह्ममन्त्रेण योगवित् ॥ १४॥
    ब्रह्ममन्त्रं प्रवक्ष्यामि तज्जापेनापि योगिराट् ।
    ब्रह्ममन्त्रप्रसादेन जडो योगी न संशयः ॥ १५॥
    प्रणवत्रयमुद्धृत्य दीर्घप्रणवयुग्मकम् ।
    तदन्ते प्रणवत्रीणि ब्रह्म ब्रह्म त्रयं त्रयम् ॥ १६॥
    सर्वसिद्धिपदस्यान्ते पालयेति च मां पदम् ।
    सत्त्वं गुणो रक्ष रक्ष मायास्वाहापदं जपेत् ॥ १७॥
    डाकिनीमन्त्रराजञ्च शृणुष्व परमेश्वर ।
    यज्जप्त्वा डाकिनी वश्या त्रैलोक्यस्थितिपालकाः ॥ १८॥
    यो जपेत् डाकिनीमन्त्रं चैतन्या कुण्डली झटित् ।
    अनायासेन सिद्धिः स्यात् परमात्मप्रदर्शनम् ॥ १९॥
    मायात्रयं समुद्धृत्य प्रणवैकं ततः परम् ।
    डाकिन्यन्ते महाशब्दं डाकिन्यम्बपदं ततः ॥ २०॥
    पुनः प्रणवमुद्धृत्य मायात्रयं ततः परम् ।
    मम योगसिद्धिमन्ते साधयेति द्विधापदम् ॥ २१॥
    मनुमुद्धृत्य देवेशि जपाद्योगी भवेज्जडः ।
    जप्त्वा सम्पूजयेन्मन्त्री पुरश्चरणसिद्धये ॥ २२॥
    सर्वत्र चित्तसाम्येन द्रव्यादिविविधानि च ।
    पूजयित्वा मूलपद्मे चित्तोपकरणेन च ॥ २३॥
    ततो मानसजापञ्च स्तोत्रञ्च कालिपावनम् ।
    पठित्वा योगिराट् भूत्त्वा वसेत् षट्चक्रवेश्मनि ॥ २४॥
    शक्तियुक्तं विधिं यस्तु स्तौति नित्यं महेश्वर ।
    तस्यैव पालनार्थाय मम यन्त्रं महीतले ॥ २५॥
    तत् स्तोत्रं शृणु योगार्थं सावधानावधारय ।
    एतत्स्तोत्रप्रसादेन महालयवशो भवेत् ॥ २६॥
    ब्रह्माणं हंससङ्घायुतशरणवदावाहनं देववक्त्र।
    विद्यादानैकहेतुं तिमिचरनयनाग्नीन्दुफुल्लारविन्दम्
    वागीशं वाग्गतिस्थं मतिमतविमलं बालार्कं चारुवर्णम् ।
    डाकिन्यालिङ्गितं तं सुरनरवरदं भावयेन्मूलपद्मे ॥ २७॥
    नित्यां ब्रह्मपरायणां सुखमयीं ध्यायेन्मुदा डाकिनी।
    रक्तां गच्छविमोहिनीं कुलपथे ज्ञानाकुलज्ञानिनीम् ।
    मूलाम्भोरुहमध्यदेशनिकटे भूविम्बमध्ये प्रभा।
    हेतुस्थां गतिमोहिनीं श्रुतिभुजां विद्यां भवाह्लादिनीम् ॥ २८॥
    विद्यावास्तवमालया गलतलप्रालम्बशोभाकरा।
    ध्यात्वा मूलनिकेतने निजकुले यः स्तौति भक्त्या सुधीः ।
    नानाकारविकारसारकिरणां कर्त्री विधो योगिना।
    मुख्यां मुख्यजनस्थितां स्थितिमतिं सत्त्वाश्रितामाश्रये ॥ २९॥
    या देवी नवडाकिनी स्वरमणी विज्ञानिनी मोहिनी ।
    मां पातु पिरयकामिनी भवविधेरानन्दसिन्धूद्भवा ।
    मे मूलं गुणभासिनी प्रचयतु श्रीः कीतीचक्रं हि मा।
    नित्या सिद्धिगुणोदया सुरदया श्रीसञ्ज्ञया मोहिता ॥ ३०॥
    तन्मध्ये परमाकला कुलफला बाणप्रकाण्डाकरा
    राका राशषसादशा शशिघटा लोलामला कोमला ।
    सा माता नवमालिनी मम कुलं मूलाम्बुजं सर्वदा ।
    सा देवी लवराकिणी कलिफलोल्लासैकबीजान्तरा ॥ ३१॥
    धात्री धैर्यवती सती मधुमती विद्यावती भारती ।
    कल्याणी कुलकन्यकाधरनरारूपा हि सूक्ष्मास्पदा ।
    मोक्षस्था स्थितिपूजिता स्थितिगता माता शुभा योगिना।
    नौमि श्रीभविकाशयां शमनगां गीतोद्गतां गोपनाम् ॥ ३२॥
    कल्केशीं कुलपण्डितां कुलपथग्रन्थिक्रियाच्छेदिनी।
    नित्यां तां गुणपण्डितां प्रचपलां मालाशतार्कारुणाम् ।
    विद्यां चण्डगुणोदयां समुदयां त्रैलोक्यरक्षाक्षरा।
    एवं ध्यात्वा पठेत् स्तोत्रं पठित्वा योगिराड् भवेत् ॥ ४१॥
    इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने
    सिद्धमन्त्रप्रकरणे षट्चक्रसिद्धिसाधने
    भैरवभैरवीसंवादे डाकिनी स्तोत्रं सम्पूर्णम् ॥ पटलः ३०॥
    Vocals : Tejaswini Khekale
    ✱ For more devotional videos do subscribe to our channel - bit.ly/3Jhi56u
    Also Join Us On -
    ► Facebook - / matadevisongs
    Instagram : www.instagram....
    ===========================================
    Music and Lyrics: Copyright USP Studios Pvt Ltd™
    Video: Copyright USP Studios Pvt Ltd™
    ============================================
    #dakshinakali #dakini #mantra #shakini #powerfulmantra #powerfulkalimantra #mahamantra #kali #maakali #kalimaabhajan #hindumantra #bhajan #sanskritmantra #kalimata #mahakalimantra #newbhajan #latestbhaktisong #hindidevotionalsongs #bhaktibhajan #vedicchants

Komentáře • 2