Shri Guru kavacham Sanskrit

Sdílet
Vložit
  • čas přidán 19. 03. 2014
  • Shri Guru kavacham Sanskrit

Komentáře • 10

  • @bidhanbanik3701
    @bidhanbanik3701 Před rokem

    🙏🙏🙏

  • @ruskinbhat9630
    @ruskinbhat9630 Před 2 lety

    Om sree guru bhraspati maha Vishnam prashant sukh sagar vishva moskha vikuntah mangal mutri swaroopya namah
    Om sree Bhakti shastra surya narayan prakash Swaran shobitam roopay namah
    Om sree Guru bhraspati sree varkund sparash atma joyti roopay namah
    Om sree Guru bhraspati dharam megh varnam subagam oawshadiya owshadiyam paraksham namah
    Om sree sada shive shakti paraksham Rajive charanam nischallam sobgayam paraksham Guru bhraspati namah Om

  • @radsub007
    @radsub007 Před 9 lety +1

    well rendered.Thank you for the post.

  • @tushartushar364
    @tushartushar364 Před 3 lety +1

    Namaskar guruji..... Ye Kavach 3 baar Morning mein padma chahiye ki 3 baar evening mein ??? Kripya margdarshan kijiye🙏🏻

  • @jackvictorfirewing8304

    bina saranga ninniyas ka kawach path kr sakta hai

  • @e2LearnByVRakesh
    @e2LearnByVRakesh Před 4 lety

    ॥ अथ पुरश्चरण-रसोल्लासे, ईश्वर-देवी-संवादे श्री-गुरु-कवचम्‌ ॥
    Part… 1of 2 // (Easy To Learn) / Dt: 12-02-2020
    ॥ कवच-स्तोत्रम्‌ ॥
    ॐ नमः प्रकाशानन्द-नाथः तु शिखायां पातु मे सदा ।
    पर-शिवानन्द-नाथः शिरो मे रक्षयेत्‌ सदा ॥१॥
    पर-शक्ति-दिव्यानन्द-नाथो भाले च रक्षतु ।
    कामेश्वरानन्द-नाथो मुखं रक्षतु सर्वधृक्‌ ॥२॥
    दिव्यौघो मस्तकं देवि! पातु सर्व-शिरः सदा ।
    कण्ठादिनाभिपर्यन्तं* सिद्धौघा गुरवः प्रिये ॥३॥ *कण्ठ-आदि-नाभि-पर्यन्तं
    भोगानन्द-नाथ गुरुः पातु दक्षिण-बाहुकम्‌ ।
    समयानन्द-नाथश्‌-च सन्ततं हृदयेऽवतु ॥४॥
    सहजानन्द-नाथश्‌-च कटिं नाभिं च रक्षतु ।
    एष स्थानेषु सिद्धौघाः रक्षन्तु गुरवः सदा ॥५॥
    अधरे मानवौघाश्‌-च गुरवः कुलनायिके!
    गगनानन्द-नाथश्‌-च गुल्फयोः पातु सर्वदा ॥६॥
    नीलौघानन्द-नाथश्‌-च रक्षयेत्‌ पाद-पृष्ठतः ।
    स्वात्मानन्द-नाथ-गुरुः पादाङ्गुलीश्च* रक्षतु ॥७॥ *पाद-अङ्गुलीश्‌-च
    कन्दोलानन्द-नाथश्‌-च रक्षेत्‌ पाद-तले सदा ।
    इत्येवं मानवौघाश्‌-च न्यसेन्नाभ्यादिपादयोः* ॥८॥ *न्यसेन्‌-नाभ्या-आदि-पादयोः
    गुरुर्मे रक्षयेदुर्व्यां सलिले परमो गुरुः ।
    परापर-गुरु-र्वह्नौ रक्षयेत्‌ शिव-वल्लभे ॥९॥
    परमेष्ठी-गुरुश्‌-चैव रक्षयेत्‌ वायु-मण्डले ।
    शिवादि-गुरवः साक्षात्‌ आकाशे रक्षयेत्‌ सदा ॥१०॥
    इन्द्रो गुरुः पातु पूर्वे, आग्नेयां गुरुरग्नयः* । *गुरुर्‌-अग्नयः
    दक्षे यमो गुरुः पातु नैऋत्यां निऋति-र्गुरुः ॥११॥
    वरुणो गुरुः पश्चिमे, वायव्यां मारुतो गुरुः ।
    उत्तरे धनदः पातु ऐशान्यामीश्वरो* गुरुः ॥१२॥ *ऐशान्याम्‌-ईश्वरो
    ऊर्ध्वं पातु गुरु-र्ब्रह्मा अनन्तो गुरुरप्यधः* । *गुरुरप्य्‌-अधः(अधः=नीचे)
    एवं दश-दिशः पान्तु, इन्द्रादि-गुरवः क्रमात्‌ ॥१३॥ *इन्द्रादि=इन्द्र-आदि
    शिरसः पाद-पर्यन्तं पान्तु दिव्यौघ-सिद्धयः ।
    मानवौघाश्‌-च गुरवो, व्यापकं पान्तु सर्वदा ॥१४॥
    सर्वत्र गुरु-रूपेण संरक्षेत्‌ साधकोत्तमम्‌ ।
    आत्मानं गुरु-रूपं च ध्यायेन्‌ मन्त्रं सदा बुधः ॥१५॥
    ॥ फलश्रुतिः ॥
    इत्येवं गुरुकवचं ब्रह्मलोकेऽपि दुर्लभम्‌ ।
    तव प्रीत्या मया ख्यातं न कस्य कथितं प्रिये ॥१॥
    पूजाकाले पठेद्‌ यस्तु , जपकाले विशेषतः ।
    त्रैलोक्य-दुर्लभं देवि । भुक्ति-मुक्ति-फलप्रदम्‌ ॥२॥
    सर्व-मन्त्र-फलं तस्य सर्व-यन्त्र-फलं तथा ।
    सर्व-तीर्थ-फलं देवि । यः पठेत्‌ कवचं गुरोः ॥३॥
    अष्ट-गन्धेन भूर्जे च लिख्यते चक्र-संयुतम्‌ ।
    कवचं गुरुपङ्क्तेस्तु भक्त्या च शुभ-वासरे ॥४॥
    पूजयेत्‌ धूप-दीप्‌-आद्यैः सुधाभिः सित-संयुतैः ।
    तर्पयेत्‌ गुरु-मन्त्रेण साधकः शुद्ध-चेतसा ॥५॥
    धारयेत्‌ कवचं देवि! इह भूत-भयापहम्‌ ।
    पठेन्मन्त्री त्रिकालं हि स मुक्तो भव-बन्धनात्‌ ।
    एवं कवचं परमं दिव्य-सिद्धौघ-कलावान्‌ ॥६॥
    ॥ इति पुरश्चरण-रसोल्लासे द्वितीय-प्रश्ने दशम-पटले (=Chapter-10)
    ईश्वर-देवी-संवादे श्री-गुरु-कवचं सम्पूर्णम्‌ ॥
    For dhyana, nyasa,panchpuja
    Please See also Part 2 of 2..
    Hi,
    Many videos on maa kali, tara, china… das mahavidyas,
    shiva , ganesh, batuka etc..
    has been recently uploaded.
    by my channel “ e2Learn By VRakesh”
    with Available PDF-files links thru Description Box…
    Please To visit or
    Search “ e2Learn By VRakesh” .. Thx

  • @e2LearnByVRakesh
    @e2LearnByVRakesh Před 4 lety

    ॥ अथ पुरश्चरण-रसोल्लासे, ईश्वर-देवी-संवादे श्री-गुरु-कवचम्‌ ॥
    Part… 2/2 // (Easy To Learn) / Dt: 12-02-2020.
    || Shri Guru Kavacham ||
    ॥ श्री गुरु-कवचम्‌ ॥
    पूर्व-पीठिका (=Introductory)
    ॥ श्री ईश्वर उवाच ॥
    शृणु देवि! प्रवक्ष्यामि गुह्याद्गुह्यतरं* महत्‌ । *गुह्‌-याद्‌-गुह्‌-य-तरं
    लोकोपकारकं* प्रश्नं , न केनापि कृतं पुरा ॥१॥ *लोको/लोक-उपकारकं
    अद्य प्रभृति कस्यापि न ख्यातं कवचं मया ।
    देशिकाः बहवः सन्ति मन्त्र-साधन-तत्पराः ॥२॥
    न तेषां जायते सिद्धिः मन्त्रैर्वा चक्र-पूजनैः ।
    गुरो-र्विधानं कवचमज्ञात्वा* क्रियते जपः । *कवचम्‌-अज्ञात्वा
    वृथाश्रमो भवेत्‌ तस्य, न सिद्धि-र्मन्त्र-पूजनैः ॥३॥
    गुरु-पादं पुरस्कृत्य प्राप्यते कवचं शुभम्‌ ।
    तदा मन्त्रस्य यन्त्रस्य, सिद्धि-र्भवति तत्क्षणात्‌ ।
    सुगोप्यं तु प्रजप्तव्यं न वक्तव्यं वरानने ॥४॥
    ॥ सविधि (स-विधि) श्री गुरु-कवच-स्तोत्रम्‌ ॥
    विनियोगः --
    ॐ नमोऽस्य श्री-गुरु-कवच-नाम-मन्त्रस्य परम-ब्रह्म ऋषिः
    सर्ववेदानुज्ञो देवदेवो श्री आदिशिवः देवता, नमो हसौं
    हंसः ह-स-क्ष-म-ल-व-र-यूं सोऽहं हंसः बीजं,
    स-ह-क्ष-म-ल-व-र-यीं शक्तिः, हंसः सोऽहं कीलकं
    समस्त-श्री-गुरु-मण्डल-प्रीत्यर्थे जपे विनियोगः ।
    ऋष्य-आदिन्यासः --
    श्री परम-ब्रह्मर्षये नमः शिरसि ।
    सर्ववेदानुज्ञ-देवदेव श्री आदि-शिव-देवतायै नमः हृदि ।
    नमः हसौं हंसः ह-स-क्ष-म-ल-व-र-यूं सोऽहं हंसः बीजाय नमः गुह्ये ।
    स-ह-क्ष-म-ल-व-र-यीं शक्तये नमः नाभौ ।
    हंसः सोऽहं कीलकाय नमः पादयोः ।
    समस्त-श्री-गुरु-मण्डल-प्रीत्यर्थे जपे विनियोगाय नमः अञ्जलौ ।
    अथ षडङ्गन्यासः = षड्‌-अङ्ग-न्यासः ।
    ॐ हसाम्‌ । ॐ हसीम्‌ । ॐ हसूम्‌ । ॐ हसैम्‌ । ॐ हसौम्‌ । ॐ हसः ।
    अथ करन्यासः ।
    ॐ हसां अङ्गुष्ठाभ्यां नमः । ॐ हसीं तर्जनीभ्यां नमः ।
    ॐ हसूं मध्यमाभ्यां नमः । ॐ हसैं अनामिकाभ्यां नमः ।
    ॐ हसौं कनिष्ठाभ्यां नमः । ॐ हसः करतल-कर-पृष्ठाभ्यां नमः ।
    अथ अङ्गन्यासः ।
    ॐ हसां हृदयाय नमः । ॐ हसीं शिरसे स्वाहा ।
    ॐ हसूं शिखायै वषट्‌ । ॐ हसैं कवचाय हुं ।
    ॐ हसौं नेत्र-त्रयाय वौषट्‌ । ॐ हसः अस्त्राय फट्‌ ।
    ध्यानम्‌ (मूल) --
    श्रीसिद्धमानवमुखा गुरवः स्वरूपं , संसारदाहशमनं द्विभुजं त्रिनेत्रम्‌ ।
    वामाङ्गशक्तिसकलाभरणैर्विभूषं , ध्यायेज्जपेत्‌ सकलसिद्धिफलप्रदं च ॥
    ध्यानम्‌ ( सरल शब्दों में) --
    श्री सिद्ध-मानव-मुखा गुरवः स्वरूपं, संसार-दाह-शमनं द्वि-भुजं त्रि-नेत्रम्‌ ।
    वामाङ्ग-शक्ति-सकलाभरणै-र्विभूषं, ध्यायेज्‌-जपेत्‌ सकल-सिद्धि-फल-प्रदं च ॥
    ॥ मानसपूजन ॥
    लं पृथ्वियात्मकं गन्ध-तन्मात्र-प्रकृत्यात्मकं गन्धं
    सशक्तिकाय श्रीगुरवे समर्पयामि नमः ।
    हं आकाशात्मकं शब्द-तन्मात्र-प्रकृत्यात्मकं पुष्पं
    सशक्तिकाय श्रीगुरवे समर्पयामि नमः ।
    यं वाय्वात्मकं स्पर्श-तन्मात्र-प्रकृत्यात्मकं धूपं
    सशक्तिकाय श्रीगुरवे घ्रापयामि नमः ।
    रं वह्न्यात्मकं रूप-तन्मात्र-प्रकृत्यात्मकं दीपं
    सशक्तिकाय श्रीगुरवे समर्पयामि नमः ।
    वं अमृतात्मकं रस-तन्मात्र-प्रकृत्यात्मकं नैवेद्यं
    सशक्तिकाय श्रीगुरवे समर्पयामि नमः ।
    सं सर्वात्मिकां ताम्बूल्‌-आदि-सर्वोपचार-पूजां
    सशक्तिकाय श्रीगुरवे समर्पयामि नमः ।
    Contd Part2 of 2
    Hi,
    Many videos on maa kali, tara, china… das mahavidyas,
    shiva , ganesh, batuka etc..
    has been recently uploaded.
    by my channel “ e2Learn By VRakesh”
    with Available PDF-files links thru Description Box…
    Please To visit or
    Search “ e2Learn By VRakesh” .. Thx